Sukta 10.170
विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः । येनेमा विश्वा भुवनान्याभृता विश्वकर्मणा विश्वदेव्यावता ॥
वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः । येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता ॥
vibhrā́jan jyótiṣā svàr ágaccho rocanáṁ diváḥ | yéne mā́ víśvā bhúvanāny ā́bhṛtā viśvákarmanā viśvádevyāvatā ||
Shining forth with your light you have gone to the solar world, the luminous realm of heaven; by you all these worlds are upheld and borne—by the All-Worker, supported by the powers of the All-Gods.
वि॒ऽभ्राज॑म् । ज्योति॑षा । स्वः॑ । अग॑च्छः । रो॒च॒नम् । दि॒वः । येन॑ । इ॒मा । विश्वा॑ । भुव॑नानि । आऽभृ॑ता । वि॒श्वऽक॑र्मणा । वि॒श्वदे॑व्यऽवता ॥विभ्राजम् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः । येन । इमा । विश्वा । भुवनानि । आभृता । विश्वकर्मणा । विश्वदेव्यवता ॥vi-bhrājam | jyotiṣā | svaḥ | agacchaḥ | rocanam | divaḥ | yena | imā | viśvā | bhuvanāni | ābhṛtā | viśva-karmaṇā | viśvadevya-vatā