Sukta 10.170
विभ्राड्बृहत्सुभृतं वाजसातमं धर्मन्दिवो धरुणे सत्यमर्पितम् । अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥
वि॒भ्राड्बृ॒हत्सुभृ॑तं वाज॒सात॑मं॒ धर्म॑न्दि॒वो ध॒रुणे॑ स॒त्यमर्पि॑तम् । अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हन्त॑मं॒ ज्योति॑र्जज्ञे असुर॒हा स॑पत्न॒हा ॥
vibhrā́ḍ bṛháṭ subhṛ́taṁ vājásātamam dhárman divó dharuṇé satyám árpitam | amitrā́hā vṛtrahā́ dasyuhántamaṁ jyótiḥ jajñe asurā́hā sapatnàhā ||
The all-shining Vast is well-supported, most victorious in the winning of plenitude; it is the Law of heaven set firm in the foundation, the Truth established. This Light is born as slayer of the hostile, slayer of the Coverer, most smiting of the dark-seizers; it is the destroyer of false powers and the conqueror of opposing forces.
वि॒ऽभ्राट् । बृ॒हत् । सुऽभृ॑तम् । वा॒ज॒ऽसात॑मम् । धर्म॑म् । दि॒वः । ध॒रुणे॑ । स॒त्यम् । अर्पि॑तम् । अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒हन्ऽत॑मम् । ज्योतिः॑ । ज॒ज्ञे॒ । अ॒सु॒र॒ऽहा । स॒प॒त्न॒ऽहा ॥विभ्राट् । बृहत् । सुभृतम् । वाजसातमम् । धर्मम् । दिवः । धरुणे । सत्यम् । अर्पितम् । अमित्रहा । वृत्रहा । दस्युहन्तमम् । ज्योतिः । जज्ञे । असुरहा । सपत्नहा ॥vi-bhrāṭ | bṛhat | su-bhṛtam | vāja-sātamam | dharmam | divaḥ | dharuṇe | satyam | arpitam | amitra-hā | vṛtra-hā | dasyuhan-tamam | jyotiḥ | jajñe | asura-hā | sapatna-hā