Sukta 10.170
विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥
वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् । वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥
vibhrā́ḍ bṛháṭ pibatu sómyaṁ mádhv ā́yur dáddhad yajñápatāv ávih rutám | vā́tajūto yó abhirákṣati tmánā prajā́ḥ pupoṣa purudhā́ ví rā́jati ||
Let the Vast, the all-shining drink the Soma-honey; let it set the life-force firmly in the lord of the sacrifice, unshaken. Wind-driven, it guards by its own self-being; it fosters the becomings and shines out in many ways.
वि॒ऽभ्राट् । बृ॒हत् । पि॒ब॒तु॒ । सो॒म्यम् । मधु॑ । आयुः॑ । दध॑त् । य॒ज्ञऽप॑तौ । अवि॑ऽहुतम् । वात॑ऽजूतः । यः । अ॒भि॒ऽरक्ष॑ति । त्मना॑ । प्र॒ऽजाः । पु॒पो॒ष॒ । पु॒रु॒धा । वि । रा॒ज॒ति॒ ॥विभ्राट् । बृहत् । पिबतु । सोम्यम् । मधु । आयुः । दधत् । यज्ञपतौ । अविहुतम् । वातजूतः । यः । अभिरक्षति । त्मना । प्रजाः । पुपोष । पुरुधा । वि । राजति ॥vi-bhrāṭ | bṛhat | pibatu | somyam | madhu | āyuḥ | dadhat | yajña-patau | avi-hutam | vāta-jūtaḥ | yaḥ | abhi-rakṣati | tmanā | pra-jāḥ | pupoṣa | purudhā | vi | rājat i