Sukta 10.17
सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः । सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ॥
सर॑स्वतीं॒ यां पि॒तरो॒ हव॑न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः । स॒ह॒स्रा॒र्घमि॒ळो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥
sárasvatīṃ yā́m pitáro hávante dakṣiṇā́ yajñám abhinákṣamāṇāḥ | sahasrārghám iḷó átra bhāgáṃ rāyás póṣaṃ yájamāneṣu dhehi ||
Sarasvatī whom the Fathers call as the offering moves to its fulfilment with Dakṣiṇā: set here for us the worthy share—rich in a thousand values—and place in the sacrificers the increase of rāyas, the fullness of being and luminous prosperity.
सर॑स्वतीम् । याम् । पि॒तरः॑ । हव॑न्ते । द॒क्षि॒णा । य॒ज्ञम् । अ॒भि॒ऽनक्ष॑माणाः । स॒ह॒स्र॒ऽअ॒र्घम् । इ॒ळः । अत्र॑ । भा॒गम् । रा॒यः । पोष॑म् । यज॑मानेषु । धे॒हि॒ ॥सरस्वतीम् । याम् । पितरः । हवन्ते । दक्षिणा । यज्ञम् । अभिनक्षमाणाः । सहस्रअर्घम् । इळः । अत्र । भागम् । रायः । पोषम् । यजमानेषु । धेहि ॥sarasvatīm | yām | pitaraḥ | havante | dakṣiṇā | yajñam | abhi-nakṣamāṇāḥ | sahasra-argham | iḷaḥ | atra | bhāgam | rāyaḥ | poṣam | yajamāneṣu | dhehi