Sukta 10.17
सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती । आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे ॥
सर॑स्वति॒ या स॒रथं॑ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती । आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥
sárasvati yā́ saráthaṃ yayā́tha svadhā́bhir devi pitṛ́bhir mádantī | āsádyāsmin barhíṣi mādayasva anamīvā́ íṣa ā́ dhehy asmē ||
O Sarasvatī, who with the Fathers journeys in one chariot, rejoicing in the powers of svadhā: sit here upon this sacred seat and delight. Place in us the stainless impulses of nourishment—energies free from hurt and distortion.
सर॑स्वति । या । स॒ऽरथ॑म् । य॒याथ॑ । स्व॒धाभिः॑ । दे॒वि॒ । पि॒तृऽभिः॑ । मद॑न्ती । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ । अ॒न॒मी॒वाः । इषः॑ । आ । धे॒हि॒ । अ॒स्मे इति॑ ॥सरस्वति । या । सरथम् । ययाथ । स्वधाभिः । देवि । पितृभिः । मदन्ती । आसद्य । अस्मिन् । बर्हिषि । मादयस्व । अनमीवाः । इषः । आ । धेहि । अस्मे इति ॥sarasvati | yā | sa-ratham | yayātha | svadhābhiḥ | devi | pitṛ-bhiḥ | madantī | āsadya | asmin | barhiṣi | mādayasva | anamīvāḥ | iṣaḥ | ā | dhehi | asme iti