Sukta 10.17
आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥
आपो॑ अ॒स्मान्मा॒तर॑: शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्व॑: पुनन्तु । विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्य॒: शुचि॒रा पू॒त ए॑मि ॥
ā́po asmā́n mā́taraḥ śúndhayantu ghṛténa no ghṛtapváḥ punantu | víśvaṃ hí ripráṃ praváhanti devī́r úd id ā́bhyaḥ śucírā pūtá emi ||
May the Waters, our Mothers, purify us; may the ghee-bright waters cleanse us with their clarified light. For the goddesses carry away every stain of distortion; rising out from them I come forth pure—radiant and made clean.
आपः । अ॒स्मान् । मा॒तरः॑ । शु॒न्ध॒य॒न्तु॒ । घृ॒तेन॑ । नः॒ । घृ॒त॒ऽप्वः॑ । पु॒न॒न्तु॒ । विश्व॑म् । हि । रि॒प्रम् । प्र॒ऽवह॑न्ति । दे॒वीः । उत् । इत् । आ॒भ्यः॒ । शुचिः॑ । आ । पू॒तः । ए॒मि॒ ॥आपः । अस्मान् । मातरः । शुन्धयन्तु । घृतेन । नः । घृतप्वः । पुनन्तु । विश्वम् । हि । रिप्रम् । प्रवहन्ति । देवीः । उत् । इत् । आभ्यः । शुचिः । आ । पूतः । एमि ॥āpaḥ | asmān | mātaraḥ | śundhayantu | ghṛtena | naḥ | ghṛta-pvaḥ | punantu | vi śvam | hi | ripram | pra-vahanti | devīḥ | ut | it | ābhyaḥ | śuciḥ | ā | pūtaḥ | emi