Sukta 10.17
प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥
प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः । उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजा॒नन् ॥
prápáthe pathā́m ajaniṣṭa pūṣā́ prápáthe diváḥ prápáthe pṛthivyā́ḥ | ubhé abhí priyátame sadhásthe ā́ ca párā ca carati prajā́nann ||
On the open track of the paths Pūṣan is born into activity—on the track of heaven, on the track of earth. Knowing the way, he moves both toward and beyond, embracing the two most dear seats of existence, guiding the soul’s journey between the heights and the foundation.
प्रऽप॑थे । प॒थाम् । अ॒ज॒नि॒ष्ट॒ । पू॒षा । प्रऽप॑थे । दि॒वः । प्रऽप॑थे । पृ॒थि॒व्याः । उ॒भे इति॑ । अ॒भि । प्रि॒यऽत॑मे । स॒धऽस्थे॑ । आ । च॒ । परा॑ । च॒ । च॒र॒ति॒ । प्र॒ऽजा॒नन् ॥प्रपथे । पथाम् । अजनिष्ट । पूषा । प्रपथे । दिवः । प्रपथे । पृथिव्याः । उभे इति । अभि । प्रियतमे । सधस्थे । आ । च । परा । च । चरति । प्रजानन् ॥pra-pathe | pathām | ajaniṣṭa | pūṣā | pra-pathe | divaḥ | pra-pathe | pṛthivyāḥ | ubhe iti | abhi | priya-tame | sadha-sthe | ā | ca | parā | ca | carati | pra-jānan