Sukta 10.17
पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत् । स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् ॥
पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वा॒: सो अ॒स्माँ अभ॑यतमेन नेषत् । स्व॒स्ति॒दा आघृ॑णि॒: सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु प्रजा॒नन् ॥
pūṣemā āśā anu veda sarvāḥ so asmāṃ abhaya-tamena neṣat | svasti-dā āghṛṇiḥ sarva-vīro 'pra-yucchan pura etu pra-jānan ||
Pūṣan knows all these directions; may he lead us by the most fearless way. The giver of well-being, the radiant one, full of all heroic powers—unfailing—may he go before us, knowing the way, so our journey becomes a progress in conscious safety.
पू॒षा । इ॒माः । आशाः॑ । अनु॑ । वे॒द॒ । सर्वाः॑ । सः । अ॒स्मान् । अभ॑यऽतमेन । ने॒ष॒त् । स्व॒स्ति॒ऽदाः । आघृ॑णिः । सर्व॑ऽवीरः । अप्र॑ऽयुच्छन् । पु॒रः । ए॒तु॒ । प्र॒ऽजा॒नन् ॥पूषा । इमाः । आशाः । अनु । वेद । सर्वाः । सः । अस्मान् । अभयतमेन । नेषत् । स्वस्तिदाः । आघृणिः । सर्ववीरः । अप्रयुच्छन् । पुरः । एतु । प्रजानन् ॥pūṣā | imāḥ | āśāḥ | anu | veda | sarvāḥ | saḥ | asmān | abhaya-tamena | neṣat | svasti-dāḥ | āghṛṇiḥ | sarva-vīraḥ | apra-yucchan | puraḥ | etu | pra-jānan