Sukta 10.17
आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु ॥
आयु॑र्वि॒श्वायु॒: परि॑ पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् । यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥
āyuḥ viśva-āyuḥ pari pāsati tvā pūṣā tvā pātu pra-pathe purastāt | yatrāsate su-kṛto yatra te yayus tatra tvā devaḥ savitā dadhātu ||
Life, universal life, surrounds and guards you; may Pūṣan protect you on the forward path, in the front. Where the well-doers sit, where your own have gone, there may the god Savitṛ place you—set in the true impulsion toward the luminous world.
आयुः॑ । वि॒श्वऽआ॑युः । परि॑ । पा॒स॒ति॒ । त्वा॒ । पू॒षा । त्वा॒ । पा॒तु॒ । प्रऽप॑थे । पु॒रस्ता॑त् । यत्र॑ । आस॑ते । सु॒ऽकृतः॑ । यत्र॑ । ते । य॒युः । तत्र॑ । त्वा॒ । दे॒वः । स॒वि॒ता । द॒धा॒तु॒ ॥आयुः । विश्वआयुः । परि । पासति । त्वा । पूषा । त्वा । पातु । प्रपथे । पुरस्तात् । यत्र । आसते । सुकृतः । यत्र । ते । ययुः । तत्र । त्वा । देवः । सविता । दधातु ॥āyuḥ | viśva-āyuḥ | pari | pāsati | tvā | pūṣā | tvā | pātu | pra-pathe | purastāt | yatra | āsate | su-kṛtaḥ | yatra | te | yayuḥ | tatra | tvā | devaḥ | savitā | dadhātu