Sukta 10.17
पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥
पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः । स त्वै॒तेभ्य॒: परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्य॑: सुविद॒त्रिये॑भ्यः ॥
pūṣā tvā itaś cyāvayatu pra vidvān anaṣṭa-paśur bhuvanasya gopāḥ | sa tvā etebhyaḥ pari dadat pitṛ-bhyo 'gnir devebhyaḥ su-vidatryebhyaḥ ||
May Pūṣan, the knower, the guardian of the world who loses no herds, move you onward from here. He delivers you over to the Fathers; and Agni delivers you to the Gods, the good finders—so the journey is secured in right guidance.
पू॒षा । त्वा॒ । इ॒तः । च्य॒व॒य॒तु॒ । प्र । वि॒द्वान् । अन॑ष्टऽपशुः । भुव॑नस्य । गो॒पाः । सः । त्वा॒ । ए॒तेभ्यः॑ । परि॑ । द॒द॒त् । पि॒तृऽभ्यः॑ । अ॒ग्निः । दे॒वेभ्यः॑ । सु॒ऽवि॒द॒त्रिये॑भ्यः ॥पूषा । त्वा । इतः । च्यवयतु । प्र । विद्वान् । अनष्टपशुः । भुवनस्य । गोपाः । सः । त्वा । एतेभ्यः । परि । ददत् । पितृभ्यः । अग्निः । देवेभ्यः । सुविदत्रियेभ्यः ॥pūṣā | tvā | itaḥ | cyavayatu | pra | vidvān | anaṣṭa-paśuḥ | bhuvanasya | gopāḥ | saḥ | tvā | etebhyaḥ | pari | dadat | pitṛ-bhyaḥ | agniḥ | devebhyaḥ | su-vidatr iyebhyaḥ