Sukta 10.17
अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते । उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥
अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वी सव॑र्णामददु॒र्विव॑स्वते । उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥
apāgūhann amṛtāṃ martyebhyaḥ kṛtvī sa-varṇām adadur vivasvate | utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ ||
They hid the immortal from mortals; making a look-alike, they gave her to Vivasvat. And the Aśvins brought back what truly was; Saraṇyū indeed left behind the two twins—marking the mystery of concealed immortality and recovered truth.
अप॑ । अ॒गू॒ह॒न् । अ॒मृता॑म् । मर्त्ये॑भ्यः । कृ॒त्वी । सऽव॑र्णाम् । अ॒द॒दुः॒ । विव॑स्वते । उ॒त । अ॒श्विनौ॑ । अ॒भ॒र॒त् । यत् । तत् । आसी॑त् । अज॑हात् । ऊँ॒ इति॑ । द्वा । मि॒थु॒ना । स॒र॒ण्यूः ॥अप । अगूहन् । अमृताम् । मर्त्येभ्यः । कृत्वी । सवर्णाम् । अददुः । विवस्वते । उत । अश्विनौ । अभरत् । यत् । तत् । आसीत् । अजहात् । ऊँ इति । द्वा । मिथुना । सरण्यूः ॥apa | agūhan | amṛtām | martyebhyaḥ | kṛtvī | sa-varṇām | adaduḥ | vivasvate | uta | aśvinau | abharat | yat | tat | āsīt | ajahāt | oṃ iti | dvā | mithunā | saraṇyūḥ