Sukta 10.17
यस्ते द्रप्सः स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् । अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥
यस्ते॑ द्र॒प्सः स्कन्द॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् । अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतम् ॥
yás te drapsáḥ skándati yás te aṃśúr bāhúcyuto dhiṣáṇāyā upásthāt | adhvaryór vā pári vā yáḥ pavítrāt táṃ te juhomi mánasā váṣaṭkṛtam ||
Whatever drop of yours slips away, whatever ray-essence of yours falls from the arm, from the lap of Dhīṣaṇā; or what is spilled by the Adhvaryu, or what escapes from the filter—this I offer back to you with the mind, made a true oblation by the inner vaṣaṭ.
यः । ते॒ । द्र॒प्सः । स्कन्द॑ति । यः । ते॒ । अं॒शुः । बा॒हुऽच्यु॑तः । धि॒षणा॑याः । उ॒पऽस्था॑त् । अ॒ध्व॒र्योः । वा॒ । परि॑ । वा॒ । यः । प॒वित्रा॑त् । तम् । ते॒ । जु॒हो॒मि॒ । मन॑सा । वष॑ट्ऽकृतम् ॥यः । ते । द्रप्सः । स्कन्दति । यः । ते । अंशुः । बाहुच्युतः । धिषणायाः । उपस्थात् । अध्वर्योः । वा । परि । वा । यः । पवित्रात् । तम् । ते । जुहोमि । मनसा । वषट्कृतम् ॥yaḥ | te | drapsaḥ | skandati | yaḥ | te | aṃśuḥ | bāhu-cyutaḥ | dhiṣaṇāyāḥ | upa-sthāt | adhvaryoḥ | vā | pari | vā | yaḥ | pavitrāt | tam | te | juhomi | manasā | vaṣaṭ-kṛtam