Sukta 10.17
द्रप्सश्चस्कन्द प्रथमाँ अनु द्यूनिमं च योनिमनु यश्च पूर्वः । समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥
द्र॒प्सश्च॑स्कन्द प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्व॑: । स॒मा॒नं योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्रा॑: ॥
drapsáś cáskanda prathamā́m ánu dyū́n imáṃ ca yónim ánu yáś ca pū́rvaḥ | samānáṃ yónim ánu saṃcárantaṃ drapsáṃ juhómy ánu saptá hótrāḥ ||
The drop has leapt forth, following the first days and this womb of becoming, and also that which was before. Moving in accord with the same matrix of birth, that drop I offer—following the seven priestly powers—so the right formation may proceed.
द्र॒प्सः । च॒स्क॒न्द॒ । प्र॒थ॒माम् । अनु॑ । द्यून् । इ॒मम् । च॒ । योनि॑म् । अनु॑ । यः । च॒ । पूर्वः॑ । स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु॑ । स॒प्त । होत्राः॑ ॥द्रप्सः । चस्कन्द । प्रथमाम् । अनु । द्यून् । इमम् । च । योनिम् । अनु । यः । च । पूर्वः । समानम् । योनिम् । अनु । सम्चरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः ॥drapsaḥ | caskanda | prathamām | anu | dyūn | imam | ca | yonim | anu | yaḥ | ca | pūrvaḥ | samānam | yonim | anu | sam-carantam | drapsam | juhomi | anu | sapta | hotrāḥ