Sukta 10.17
यस्ते द्रप्सः स्कन्नो यस्ते अंशुरवश्च यः परः स्रुचा । अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥
यस्ते॑ द्र॒प्सः स्क॒न्नो यस्ते॑ अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा । अ॒यं दे॒वो बृह॒स्पति॒: सं तं सि॑ञ्चतु॒ राध॑से ॥
yás te drapsáḥ skannó yás te aṃśúr aváś ca yáḥ paráḥ srucā́ | ayáṃ devó bṛ́haspátiḥ sáṃ táṃ siñcatu rā́dhase ||
Whatever drop of yours is spilled, whatever ray-essence is lost below or beyond by the ladle—may this god Bṛhaspati gather and pour it back together for our fulfilment, for the right accomplishment of the work.
यः । ते॒ । द्र॒प्सः । स्क॒न्नः । यः । ते॒ । अं॒शुः । अ॒वः । च॒ । यः । प॒रः । स्रु॒चा । अ॒यम् । दे॒वः । बृह॒स्पतिः॑ । सम् । तम् । सि॒ञ्च॒तु॒ । राध॑से ॥यः । ते । द्रप्सः । स्कन्नः । यः । ते । अंशुः । अवः । च । यः । परः । स्रुचा । अयम् । देवः । बृहस्पतिः । सम् । तम् । सिञ्चतु । राधसे ॥yaḥ | te | drapsaḥ | skannaḥ | yaḥ | te | aṃśuḥ | avaḥ | ca | yaḥ | paraḥ | srucā | ayam | devaḥ | bṛhaspatiḥ | sam | tam | siñcatu | rādhase