Sukta 10.169
प्रजापतिर्मह्यमेता रराणो विश्वैर्देवैः पितृभिः संविदानः । शिवाः सतीरुप नो गोष्ठमाकस्तासां वयं प्रजया सं सदेम ॥
प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्दे॒वैः पि॒तृभि॑: संविदा॒नः । शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां॑ व॒यं प्र॒जया॒ सं स॑देम ॥
prajā́patir máhyam etā́ rarā́ṇo víśvair deváiḥ pitṛ́bhiḥ saṁvidānáḥ | śivā́ḥ satī́r úpa no goṣṭhám ā́kas tāsā́ṁ vayáṁ prajā́yā sáṁ sadema ||
Prajāpati, rejoicing in these for me, in accord with all the gods and the fathers, has brought the auspicious true Powers near to our luminous station; may we sit together with them in a shared dwelling of creative becoming—rich in the offspring of the soul.
प्र॒जाऽप॑तिः । मह्य॑म् । ए॒ताः । ररा॑णः । विश्वैः॑ । दे॒वैः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः । शि॒वाः । स॒तीः । उप॑ । नः॒ । गो॒ऽस्थम् । आ । अ॒क॒रित्य॑कः । तासा॑म् । व॒यम् । प्र॒ऽजया॑ । सम् । स॒दे॒म॒ ॥प्रजापतिः । मह्यम् । एताः । रराणः । विश्वैः । देवैः । पितृभिः । सम्विदानः । शिवाः । सतीः । उप । नः । गोस्थम् । आ । अकरित्यकः । तासाम् । वयम् । प्रजया । सम् । सदेम ॥prajāpatiḥ | mahyam | etāḥ | rarāṇaḥ | viśvaiḥ | devaiḥ | pitṛ-bhiḥ | sam-vidānaḥ | śivāḥ | satīḥ | upa | naḥ | go--stham | ā | akar ity akaḥ | tāsām | vayam | pra-jayā | sam | sadema