Sukta 10.166
अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः । अधः सपत्ना मे पदोरिमे सर्वे अभिष्ठिताः ॥
अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः । अ॒धः स॒पत्ना॑ मे प॒दोरि॒मे सर्वे॑ अ॒भिष्ठि॑ताः ॥
ahám asmi sapatnahé́ndra ivā́riṣṭo ákṣataḥ | adháḥ sapátnā me padór imé sárve abhíṣṭhitāḥ ||
I am the slayer of rivals, like Indra—unharmed, unbroken. Below, under my two feet, all these rivals are trodden down and held fast.
अ॒हम् । अ॒स्मि॒ । स॒प॒त्न॒ऽहा । इन्द्रः॑ऽइव । अरि॑ष्टः । अक्ष॑तः । अ॒धः । स॒ऽपत्नाः॑ । मे॒ । प॒दोः । इ॒मे । सर्वे॑ । अ॒भिऽस्थि॑ताः ॥अहम् । अस्मि । सपत्नहा । इन्द्रःइव । अरिष्टः । अक्षतः । अधः । सपत्नाः । मे । पदोः । इमे । सर्वे । अभिस्थिताः ॥aham | asmi | sapatna-hā | indraḥ-iva | ariṣṭaḥ | akṣataḥ | adhaḥ | sa-patnāḥ | me | padoḥ | ime | sarve | abhi-sthitāḥ