Sukta 10.166
ऋषभं मा समानानां सपत्नानां विषासहिम् । हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥
ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिम् । ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् ॥
ṛṣabháṃ mā samānā́nāṃ sapátnānāṃ viṣāsahím | hantā́raṃ śátrūṇāṃ kṛdhi virā́jaṃ gópatim gávām ||
Make me the bull among my equals—overpowering the rivals; make me the smiter of enemies, shining in sovereign force, the guardian-lord of the Rays (cows), the master of plenitude.
ऋ॒ष॒भम् । मा॒ । स॒मा॒नाना॑म् । स॒ऽपत्ना॑नाम् । वि॒ऽस॒स॒हिम् । ह॒न्तार॑म् । शत्रू॑णाम् । कृ॒धि॒ । वि॒ऽराज॑म् । गोऽप॑तिम् । गवा॑म् ॥ऋषभम् । मा । समानानाम् । सपत्नानाम् । विससहिम् । हन्तारम् । शत्रूणाम् । कृधि । विराजम् । गोपतिम् । गवाम् ॥ṛṣabham | mā | samānānām | sa-patnānām | vi-sasahim | hantāram | śatrūṇām | kṛdhi | vi-rājam | go--patim | gavām