Sukta 10.166
अत्रैव वोऽपि नह्याम्युभे आर्त्नी इव ज्यया । वाचस्पते नि षेधेमान्यथा मदधरं वदान् ॥
अत्रै॒व वोऽपि॑ नह्याम्यु॒भे आर्त्नी॑ इव॒ ज्यया॑ । वाच॑स्पते॒ नि षे॑धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ॥
átraiva vo’pi nahyāmy ubhé ā́rtnī iva jyáyā | vā́caspate ní ṣedhemā́nyáthā mád adharáṃ vádān ||
Here itself I bind you fast, as with a bowstring binding both ends. O Lord of the Word, restrain these, so that they speak beneath me—no longer above my truth.
अत्र॑ । ए॒व । वः॒ । अपि॑ । न॒ह्या॒मि॒ । उ॒भे इति॑ । आर्त्नी॑ इ॒वेत्यार्त्नी॑ऽइव । ज्यया॑ । वाचः॑ । प॒ते॒ । नि । से॒ध॒ । इ॒मान् । यथा॑ । मत् । अध॑रम् । वदा॑न् ॥अत्र । एव । वः । अपि । नह्यामि । उभे इति । आर्त्नी इवेत्यार्त्नीइव । ज्यया । वाचः । पते । नि । सेध । इमान् । यथा । मत् । अधरम् । वदान् ॥atra | eva | vaḥ | api | nahyāmi | ubhe iti | ātnīrivetyātnīr-iva | jyayā | vācaḥ | pate | ni | sedha | imān | yathā | mat | adharam | vadān