Sukta 10.165
यदुलूको वदति मोघमेतद्यत्कपोतः पदमग्नौ कृणोति । यस्य दूतः प्रहित एष एतत्तस्मै यमाय नमो अस्तु मृत्यवे ॥
यदुलू॑को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोत॑: प॒दम॒ग्नौ कृ॒णोति॑ । यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥
yád ulū́ko vádati mógham etád yát kapotáḥ padám agnáu kṛṇóti | yásya dūtáḥ práhita eṣá etát tásmai yamā́ya námo astu mṛtyáve ||
What the owl utters is vain, and what the pigeon marks upon the fire is vain—when this is only the dispatched messenger of that Power. To that Yama (the Lord of the law of departure) be obeisance, to Death—let the dark claim be satisfied elsewhere, not here.
यत् । उलू॑कः । वद॑ति । मो॒घम् । ए॒तत् । यत् । क॒पोतः॑ । प॒दम् । अ॒ग्नौ । कृ॒णोति॑ । यस्य॑ । दू॒तः । प्रऽहि॑तः । ए॒षः । ए॒तत् । तस्मै॑ । य॒माय॑ । नमः॑ । अ॒स्तु॒ । मृ॒त्यवे॑ ॥यत् । उलूकः । वदति । मोघम् । एतत् । यत् । कपोतः । पदम् । अग्नौ । कृणोति । यस्य । दूतः । प्रहितः । एषः । एतत् । तस्मै । यमाय । नमः । अस्तु । मृत्यवे ॥yat | ulūkaḥ | vadati | mogham | etat | yat | kapotaḥ | padam | agnau | kṛṇoti | yasya | dūtaḥ | pra-hitaḥ | eṣaḥ | etat | tasmai | yamāya | namaḥ | astu | mṛtyave