Sukta 10.164
यदिन्द्र ब्रह्मणस्पतेऽभिद्रोहं चरामसि । प्रचेता न आङ्गिरसो द्विषतां पात्वंहसः ॥
यदि॑न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा॑मसि । प्रचे॑ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥
yádindra brahmaṇas pate’bhidróhaṃ cárāmasi | prá-cetā na āṅgirasó dviṣatā́ṃ pā́tv áṃhasaḥ ||
If, O Indra, O Lord of the sacred word, we have moved in hostility or breach, then may the foreknowing Āṅgirasa protect us from the sin and distress that arise from enemies.
यत् । इ॒न्द्र॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । अ॒भि॒ऽद्रो॒हम् । चरा॑मसि । प्रऽचे॑ताः । नः॒ । आ॒ङ्गि॒र॒सः । द्वि॒ष॒ताम् । पा॒तु॒ । अंह॑सः ॥यत् । इन्द्र । ब्रह्मणः । पते । अभिद्रोहम् । चरामसि । प्रचेताः । नः । आङ्गिरसः । द्विषताम् । पातु । अंहसः ॥yat | indra | brahmaṇaḥ | pate | abhi-droham | carāmasi | pra-cetāḥ | naḥ | āṅgirasaḥ | dviṣatām | pātu | aṃhasaḥ