Sukta 10.164
अजैष्माद्यासनाम चाभूमानागसो वयम् । जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥
अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् । जा॒ग्र॒त्स्व॒प्नः सं॑क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ॥
ajáiṣmā́dyāsanā́ma cā́bhūm ā́nāgaso vayám | jā́grat-svápnaḥ saṃkalpáḥ pāpó yaṃ dviṣmá taṃ sá ṛcchatú yó no dveṣṭí tám ṛcchatú ||
We have conquered today; we have attained and become without fault. The evil intention born of waking and of dream—may it go to the one we hate; may it go to the one who hates us.
अजै॑ष्म । अ॒द्य । अस॑नाम । च॒ । अभू॑म । अना॑गसः । व॒यम् । जा॒ग्र॒त्ऽस्व॒प्नः । स॒म्ऽक॒ल्पः । पा॒पः । यम् । द्वि॒ष्मः । तम् । सः । ऋ॒च्छ॒तु॒ । यः । नः॒ । द्वे॒ष्टि॒ । तम् । ऋ॒च्छ॒तु॒ ॥अजैष्म । अद्य । असनाम । च । अभूम । अनागसः । वयम् । जाग्रत्स्वप्नः । सम्कल्पः । पापः । यम् । द्विष्मः । तम् । सः । ऋच्छतु । यः । नः । द्वेष्टि । तम् । ऋच्छतु ॥ajaiṣma | adya | asanāma | ca | abhūma | anāgasaḥ | vayam | jāgrat-svapnaḥ | sam-kalpaḥ | pāpaḥ | yam | dviṣmaḥ | tam | saḥ | ṛcchatu | yaḥ | naḥ | dveṣṭi | tam | ṛcchatu