Sukta 10.164
यदाशसा निःशसाभिशसोपारिम जाग्रतो यत्स्वपन्तः । अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥
यदा॒शसा॑ नि॒:शसा॑भि॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्त॑: । अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥
yád āśásā niḥśásā abhiśásopārím jā́grato yát svápantaḥ | agnír víśvāny ápa duṣkṛtā́ny ájuṣṭāny āré asmád dādhātu ||
Whatever by hope or hopelessness, by curse or counter-curse, we have approached—whether waking or sleeping—may Agni set far away from us all misdeeds, all that is unaccepted by the gods.
यत् । आ॒ऽशसा॑ । निः॒ऽशसा॑ । अ॒भि॒ऽशसा॑ । उ॒प॒ऽआ॒रि॒म । जाग्र॑तः । यत् । स्व॒पन्तः॑ । अ॒ग्निः । विश्वा॑नि । अप॑ । दुः॒ऽकृ॒तानि॑ । अजु॑ष्टानि । आ॒रे । अ॒स्मत् । दा॒धा॒तु॒ ॥यत् । आशसा । निःशसा । अभिशसा । उपआरिम । जाग्रतः । यत् । स्वपन्तः । अग्निः । विश्वानि । अप । दुःकृतानि । अजुष्टानि । आरे । अस्मत् । दाधातु ॥yat | āśasā | niḥ-śasā | abhi-śasā | upa-ārima | jāgrataḥ | yat | svapantaḥ | agniḥ | viśvāni | apa | duḥ-kṛtāni | ajuṣṭāni | āre | asmat | dādhātu