Sukta 10.164
भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् । भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ॥
भ॒द्रं वै वरं॑ वृणते भ॒द्रं यु॑ञ्जन्ति॒ दक्षि॑णम् । भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मन॑: ॥
bhadráṃ vai váraṃ vṛṇate bhadráṃ yuñjanti dákṣiṇam | bhadráṃ vaivasvaté cákṣur bahutrā́ jīvátó manaḥ ||
They choose indeed the gracious good; they yoke the right-hand power to the good. Auspicious is the seeing in the realm of Vivasvat; in many places may the mind of the living find its wide and happy outlook.
भ॒द्रम् । वै । वर॑म् । वृ॒ण॒ते॒ । भ॒द्रम् । यु॒ञ्ज॒न्ति॒ । दक्षि॑णम् । भ॒द्रम् । वै॒व॒स्व॒ते । चक्षुः॑ । ब॒हु॒ऽत्रा । जीव॑तः । मनः॑ ॥भद्रम् । वै । वरम् । वृणते । भद्रम् । युञ्जन्ति । दक्षिणम् । भद्रम् । वैवस्वते । चक्षुः । बहुत्रा । जीवतः । मनः ॥bhadram | vai | varam | vṛṇate | bhadram | yuñjanti | dakṣiṇam | bhadram | vaivasvate | cakṣuḥ | bahu-trā | jīvataḥ | manaḥ