Sukta 10.163
ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥
ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्य॒: कीक॑साभ्यो अनू॒क्या॑त् । यक्ष्मं॑ दोष॒ण्य१॒॑मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥
grīvā́bhyas te uṣṇíhābhyáḥ kī́kasābhyo anū́kyāt | yakṣmáṃ doṣaṇyàm aṃ́sābhyāṃ bāhúbhyāṃ ví vṛhāmi te ||
From your neck, from the warm vital channels, from the vertebral frame and from the spinal core, I tear out the wasting force (yakṣma). From the shoulders and from the arms I uproot from you that affliction which clings to the joints of action.
ग्री॒वाभ्यः॑ । ते॒ । उ॒ष्णिहा॑भ्यः । कीक॑साभ्यः । अ॒नू॒क्या॑त् । यक्ष्म॑म् । दो॒ष॒ण्य॑म् । अंसा॑भ्याम् । बा॒हुऽभ्याम् । वि । वृ॒हा॒मि॒ । ते॒ ॥ग्रीवाभ्यः । ते । उष्णिहाभ्यः । कीकसाभ्यः । अनूक्यात् । यक्ष्मम् । दोषण्यम् । अंसाभ्याम् । बाहुभ्याम् । वि । वृहामि । ते ॥grīvābhyaḥ | te | uṣṇihābhyaḥ | kīkasābhyaḥ | anūkyāt | yakṣmam | doṣaṇyam | aṃsābhyām | bāhu-bhyām | vi | vṛhāmi | te