Sukta 10.163
अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि । यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥
अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ । यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥
akṣī́bhyāṃ te nā́sikābhyāṃ kárṇābhyāṃ chúbukād ádhi | yákṣmaṃ śīrṣaṇyàṃ mastíṣkāj jihvā́yā ví vṛhāmi te ||
From your eyes, from your nostrils, from your ears, from the chin—out of the head-disease, from the brain, from the tongue—I pluck out the wasting affliction from you, separating it away.
अ॒क्षीभ्या॑म् । ते॒ । नासि॑काभ्याम् । कर्णा॑भ्याम् । छुबु॑कात् । अधि॑ । यक्ष्म॑म् । शी॒र्ष॒ण्य॑म् । म॒स्तिष्का॑त् । जि॒ह्वायाः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥अक्षीभ्याम् । ते । नासिकाभ्याम् । कर्णाभ्याम् । छुबुकात् । अधि । यक्ष्मम् । शीर्षण्यम् । मस्तिष्कात् । जिह्वायाः । वि । वृहामि । ते ॥akṣībhyām | te | nāsikābhyām | karṇābhyām | chubukāt | adhi | yakṣmam | śīrṣaṇyam | mastiṣkāt | jihvāyāḥ | vi | vṛhāmi | te