Sukta 10.160
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ । आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥
अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑ । आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ॥
aśvāyánto gavyánto vājáyanto hávāmāhe tvópagantavā́ u | ābhū́ṣantas te sumatáu návāyāṃ vayám indra tvā́ śunáṃ huvema ||
Seeking the horse-force, seeking the cow-lights, seeking the plenitude of strength, we call you to come near. Adorning ourselves in your ever-new good will, O Indra, we invoke you for a happy, prosperous state.
अ॒श्व॒यन्तः॑ । ग॒व्यन्तः॑ । वा॒जय॑न्तः । हवा॑महे । त्वा॒ । उप॑ऽग॒न्त॒वै । ऊँ॒ इति॑ । आ॒ऽभूष॑न्तः । ते॒ । सु॒ऽम॒तौ । नवा॑याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒ ॥अश्वयन्तः । गव्यन्तः । वाजयन्तः । हवामहे । त्वा । उपगन्तवै । ऊँ इति । आभूषन्तः । ते । सुमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम ॥aśvayantaḥ | gavyantaḥ | vājayantaḥ | havāmahe | tvā | upa-gantavai | oṃ iti | ābhūṣantaḥ | te | su-matau | navāyām | vayam | indra | tvā | śunam | huvema