Sukta 10.159
समजैषमिमा अहं सपत्नीरभिभूवरी । यथाहमस्य वीरस्य विराजानि जनस्य च ॥
सम॑जैषमि॒मा अ॒हं स॒पत्नी॑रभि॒भूव॑री । यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑नि॒ जन॑स्य च ॥
sám ajaiṣam imā́ aháṃ sapátnīr abhibhū́varī | yáthā́ham asyá vīrásya virā́jāni jánasya ca ||
I have wholly conquered these rival powers, becoming the overmastering force, so that I may shine forth as the sovereign radiance of this hero—and also of the people.
सम् । अ॒जै॒ष॒म् । इ॒माः । अ॒हम् । स॒ऽपत्नीः॑ । अ॒भि॒ऽभूव॑री । यथा॑ । अ॒हम् । अ॒स्य । वी॒रस्य॑ । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥सम् । अजैषम् । इमाः । अहम् । सपत्नीः । अभिभूवरी । यथा । अहम् । अस्य । वीरस्य । विराजानि । जनस्य । च ॥sam | ajaiṣam | imāḥ | aham | sa-patnīḥ | abhi-bhūvarī | yathā | aham | asya | vīrasya | vi-rājāni | janasya | ca