Sukta 10.158
चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः । सं चेदं वि च पश्येम ॥
चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्य॑: । सं चे॒दं वि च॑ पश्येम ॥
cákṣur no dhehi cákṣuṣe cákṣur vikhyái tanū́bhyaḥ | sáṃ cédáṃ ví ca paśyema ||
Set vision in us for vision; set vision for clear discernment in our bodies, so that we may see this world in its unity and in its right distinctions.
चक्षुः॑ । नः॒ । धे॒हि॒ । चक्षु॑षे । चक्षुः॑ । वि॒ऽख्यै । त॒नूभ्यः॑ । सम् । च॒ । इ॒दम् । वि । च॒ । प॒श्ये॒म॒ ॥चक्षुः । नः । धेहि । चक्षुषे । चक्षुः । विख्यै । तनूभ्यः । सम् । च । इदम् । वि । च । पश्येम ॥cakṣuḥ | naḥ | dhehi | cakṣuṣe | cakṣuḥ | vi-khyai | tanūbhyaḥ | sam | ca | idam | vi | ca | paśyema