Sukta 10.155
यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः । हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥
यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः । ह॒ता इन्द्र॑स्य॒ शत्र॑व॒: सर्वे॑ बुद्बु॒दया॑शवः ॥
yád dha prācī́r ajágantóro maṇḍūra-dhāṇikī́ḥ | hatā́ índrasya śátraváḥ sárve budbuda-yā́śavaḥ ||
When those forward-moving powers came pressing into the breast (the inner field), then all the enemies of Indra were struck down—mere bubble-like forces, swift only in their froth.
यत् । ह॒ । प्राचीः॑ । अज॑गन्त । उरः॑ । म॒ण्डू॒र॒ऽधा॒णि॒कीः॒ । ह॒ताः । इन्द्र॑स्य । शत्र॑वः । सर्वे॑ । बु॒द्बु॒दऽया॑शवः ॥यत् । ह । प्राचीः । अजगन्त । उरः । मण्डूरधाणिकीः । हताः । इन्द्रस्य । शत्रवः । सर्वे । बुद्बुदयाशवः ॥yat | ha | prācīḥ | ajaganta | uraḥ | maṇḍūra-dhāṇikīḥ | hatāḥ | indrasya | śatravaḥ | sarve | budbuda-yāśavaḥ