Sukta 10.155
अदो यद्दारु प्लवते सिन्धोः पारे अपूरुषम् । तदा रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥
अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धो॑: पा॒रे अ॑पूरु॒षम् । तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ॥
adó yád dā́ru plávate síndhoḥ pāré apūruṣám | tádā́ rabhásva durháno téna gáccha parastarám ||
That log which floats yonder on the farther bank of the river, untouched by man—clutch that, O hard-to-slay one, and by it go beyond, to the farther side.
अ॒दः । यत् । दारु॑ । प्लव॑ते । सिन्धोः॑ । पा॒रे । अ॒पु॒रु॒षम् । तत् । आ । र॒भ॒स्व॒ । दु॒र्ह॒नो॒ इति॑ दुःऽहनो । तेन॑ । ग॒च्छ॒ । प॒रः॒ऽत॒रम् ॥अदः । यत् । दारु । प्लवते । सिन्धोः । पारे । अपुरुषम् । तत् । आ । रभस्व । दुर्हनो इति दुःहनो । तेन । गच्छ । परःतरम् ॥adaḥ | yat | dāru | plavate | sindhoḥ | pāre | apuruṣam | tat | ā | rabhasva | durhano itiduḥ-hano | tena | gaccha | paraḥ-taram