Sukta 10.153
त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः । उद्द्यामस्तभ्ना ओजसा ॥
त्वमि॑न्द्रासि वृत्र॒हा व्य१॒॑न्तरि॑क्षमतिरः । उद्द्याम॑स्तभ्ना॒ ओज॑सा ॥
tvám indrāsi vṛtrahā́ vy àntárikṣam atiraḥ | úd dyā́m astabhnā ójasā ||
You, O Indra, are the Vṛtra-slayer; you have passed through and widened the mid-world. With your energy you upheld the heaven above.
त्वम् । इ॒न्द्र॒ । अ॒सि॒ । वृ॒त्र॒ऽहा । वि । अ॒न्तरि॑क्षम् । अ॒ति॒रः॒ । उत् । द्याम् । अ॒स्त॒भ्नाः॒ । ओज॑सा ॥त्वम् । इन्द्र । असि । वृत्रहा । वि । अन्तरिक्षम् । अतिरः । उत् । द्याम् । अस्तभ्नाः । ओजसा ॥tvam | indra | asi | vṛtra-hā | vi | antarikṣam | atiraḥ | ut | dyām | astabhnāḥ | ojasā