Sukta 10.153
त्वमिन्द्र बलादधि सहसो जात ओजसः । त्वं वृषन्वृषेदसि ॥
त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः । त्वं वृ॑ष॒न्वृषेद॑सि ॥
tvám indra balā́d ádhi sáhaso jātá ójasaḥ | tváṃ vṛṣán vṛ́ṣed asi ||
You, O Indra, are born from strength upon strength, from might, from energy. You are the Bull, the very seat of the Bull-force.
त्वम् । इ॒न्द्र॒ । बला॑त् । अधि॑ । सह॑सः । जा॒तः । ओज॑सः । त्वम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥त्वम् । इन्द्र । बलात् । अधि । सहसः । जातः । ओजसः । त्वम् । वृषन् । वृषा । इत् । असि ॥tvam | indra | balāt | adhi | sahasaḥ | jātaḥ | ojasaḥ | tvavm | vṛṣan | vṛṣā | it | asi