Sukta 10.153
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते । भेजानासः सुवीर्यम् ॥
ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते । भे॒जा॒नास॑: सु॒वीर्य॑म् ॥
īṅkháyantīr apasyúvá índraṃ jātám upā́sate | bhejānā́saḥ su-vī́ryam ||
Stirring forward, the doers of the work draw near to Indra newly born (in them); they share in his noble hero-force.
ई॒ङ्खय॑न्तीः । अ॒प॒स्युवः॑ । इन्द्र॑म् । जा॒तम् । उप॑ । आ॒स॒ते॒ । भे॒जा॒नासः॑ । सु॒ऽवीर्य॑म् ॥ईङ्खयन्तीः । अपस्युवः । इन्द्रम् । जातम् । उप । आसते । भेजानासः । सुवीर्यम् ॥īṅkhayantīḥ | apasyuvaḥ | indram | jātam | upa | āsate | bhejānāsaḥ | su-vīryam