Sukta 10.151
प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः । प्रियं भोजेषु यज्वस्विदं म उदितं कृधि ॥
प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥
priyáṃ śraddhe dádatas priyáṃ śraddhe dídāsatas | priyáṃ bhójeṣu yájvasv idáṃ ma uditáṃ kṛdhi ||
O Faith, make dear the giver and make dear the generous one; make dear among the enjoyments the sacrificer. Make this my uttered intention rise and stand accomplished.
प्रि॒यम् । श्र॒द्धे॒ । दद॑तः । प्रि॒यम् । श्र॒द्धे॒ । दिदा॑सतः । प्रि॒यम् । भो॒जेषु॑ । यज्व॑सु । इ॒दम् । मे॒ । उ॒दि॒तम् । कृ॒धि॒ ॥प्रियम् । श्रद्धे । ददतः । प्रियम् । श्रद्धे । दिदासतः । प्रियम् । भोजेषु । यज्वसु । इदम् । मे । उदितम् । कृधि ॥priyam | śraddhe | dadataḥ | priyam | śraddhe | didāsataḥ | priyam | bhojeṣu | yajvasu | idam | me | uditam | kṛdhi