Sukta 10.151
यथा देवा असुरेषु श्रद्धामुग्रेषु चक्रिरे । एवं भोजेषु यज्वस्वस्माकमुदितं कृधि ॥
यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥
yáthā devā́ ásureṣu śraddhā́m ugréṣu cakriré | eváṃ bhójeṣu yájvasv asmā́kam uditáṃ kṛdhi ||
As the gods established faith amid the fierce Asuric powers, so too among our enjoyments and among our sacrificers make our raised intention effective and fulfilled.
यथा॑ । दे॒वाः । असु॑रेषु । श्र॒द्धाम् । उ॒ग्रेषु॑ । च॒क्रि॒रे । ए॒वम् । भो॒जेषु॑ । यज्व॑ऽसु । अ॒स्माक॑म् । उ॒दि॒तम् । कृ॒धि॒ ॥यथा । देवाः । असुरेषु । श्रद्धाम् । उग्रेषु । चक्रिरे । एवम् । भोजेषु । यज्वसु । अस्माकम् । उदितम् । कृधि ॥yathā | devāḥ | asureṣu | śraddhām | ugreṣu | cakrire | evam | bhojeṣu | yajva-su | asmākam | uditam | kṛdhi