Sukta 10.151
श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः । श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि ॥
श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ॥
śraddháyāgníḥ samídhyate śraddháyā hūyate havíḥ | śraddhā́ṃ bhágasya mūrdháni vácasā vedayāmasi ||
By faith and assent the Fire is kindled; by faith the offering is called and lifted. Faith we place upon the summit of Bhaga—by the word we make it manifest in consciousness.
श्र॒द्धया॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । श्र॒द्धया॑ । हू॒य॒ते॒ । ह॒विः । श्र॒द्धाम् । भग॑स्य । मू॒र्धनि॑ । वच॑सा । आ । वे॒द॒या॒म॒सि॒ ॥श्रद्धया । अग्निः । सम् । इध्यते । श्रद्धया । हूयते । हविः । श्रद्धाम् । भगस्य । मूर्धनि । वचसा । आ । वेदयामसि ॥śraddhayā | agniḥ | sam | idhyate | śraddhayā | hūyate | haviḥ | śraddhām | bhagasya | mūrdhani | vacasā | ā | vedayāmasi