Sukta 10.15
ये चेह पितरो ये च नेह याँश्च विद्म याँ उ च न प्रविद्म । त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व ॥
ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म । त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञं सुकृ॑तं जुषस्व ॥
yé cehá pitáro yé ca néha yā́ṃś ca vidmá yā́ṃ u ca ná právidma | tváṃ véttha yáti te jāta-vedaḥ svadhā́bhir yajñáṃ sukṛ́taṃ juṣasva ||
Whether the Fathers are here or not here—those whom we know and those whom we do not clearly know—you know them, O Jātavedas, as they truly are. With the powers of svadhā, accept and take joy in this well-accomplished sacrifice.
ये । च॒ । इ॒ह । पि॒तरः॑ । ये । च॒ । न । इ॒ह । यान् । च॒ । वि॒द्म । यान् । ऊँ॒ इति॑ । च॒ । न । प्र॒ऽवि॒द्म । त्वम् । वे॒त्थ॒ । यति॑ । ते । जा॒त॒ऽवे॒दः॒ । स्व॒धाभिः॑ । य॒ज्ञम् । सुऽकृ॑तम् । जु॒ष॒स्व॒ ॥ये । च । इह । पितरः । ये । च । न । इह । यान् । च । विद्म । यान् । ऊँ इति । च । न । प्रविद्म । त्वम् । वेत्थ । यति । ते । जातवेदः । स्वधाभिः । यज्ञम् । सुकृतम् । जुषस्व ॥ye | ca | iha | pitaraḥ | ye | ca | na | iha | yān | ca | vidma | yān | oṃ iti | ca | na | pra-vidma | tvam | vettha | yati | te | jāta-vedaḥ | svadhābhiḥ | yajñam | su-kṛtam | juṣasva