Sukta 10.149
हिरण्यस्तूपः सवितर्यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् । एवा त्वार्चन्नवसे वन्दमानः सोमस्येवांशुं प्रति जागराहम् ॥
हिर॑ण्यस्तूपः सवित॒र्यथा॑ त्वाङ्गिर॒सो जु॒ह्वे वाजे॑ अ॒स्मिन् । ए॒वा त्वार्च॒न्नव॑से॒ वन्द॑मान॒: सोम॑स्येवां॒शुं प्रति॑ जागरा॒हम् ॥
hiraṇyá-stūpaḥ savitar yáthā tvā ā́ṅgirasaḥ júhve vā́je asmín | evā́ tvā́rcann ávase vándamānaḥ sómasya-ivāṃśúṃ práti jāgarāhám ||
O Savitṛ of the golden summit, as the Aṅgirasas invoked you in this plenitude of force, so I too, singing to you for help and adoring, keep wakeful toward you—like one who watches for Soma’s shining ray—until your impulsion becomes active in us.
हिर॑ण्यऽस्तूपः । स॒वि॒तः॒ । यथा॑ । त्वा॒ । आ॒ङ्गि॒र॒सः । जु॒ह्वे । वाजे॑ । अ॒स्मिन् । ए॒व । त्वा॒ । अर्च॑न् । अव॑से । वन्द॑मानः । सोम॑स्यऽइव । अं॒शुम् । प्रति॑ । जा॒ग॒र॒ । अ॒हम् ॥हिरण्यस्तूपः । सवितः । यथा । त्वा । आङ्गिरसः । जुह्वे । वाजे । अस्मिन् । एव । त्वा । अर्चन् । अवसे । वन्दमानः । सोमस्यइव । अंशुम् । प्रति । जागर । अहम् ॥hiraṇya-stūpaḥ | savitaḥ | yathā | tvā | āṅgirasaḥ | juhve | vāje | asmin | eva | tvā | arcan | avase | vandamānaḥ | somasya-iva | aṃśum | prati | jāgara | aham