Sukta 10.146
गामङ्गैष आ ह्वयति दार्वङ्गैषो अपावधीत् । वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते ॥
गाम॒ङ्गैष आ ह्व॑यति॒ दार्व॒ङ्गैषो अपा॑वधीत् । वस॑न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ॥
gā́m aṅgá eṣá ā́ hvayati dā́rv aṅgá eṣó apā́vadhīt | vásann araṇyā́nyāṃ sāyám ákrukṣad íti manyate ||
‘A cow indeed—this one calls!’ ‘Wood indeed—this one has struck down!’ Living in Araṇyānī, at evening one imagines: ‘Someone has cried out.’ Thus the forest turns lone perception into living presences.
गाम् । अ॒ङ्ग । ए॒षः । आ । ह्व॒य॒ति॒ । दारु॑ । अ॒ङ्ग । ए॒षः । अप॑ । अ॒व॒धी॒त् । वस॑न् । अ॒र॒ण्या॒न्याम् । सा॒यम् । अक्रु॑क्षत् । इति॑ । म॒न्य॒ते॒ ॥गाम् । अङ्ग । एषः । आ । ह्वयति । दारु । अङ्ग । एषः । अप । अवधीत् । वसन् । अरण्यान्याम् । सायम् । अक्रुक्षत् । इति । मन्यते ॥gām | aṅga | eṣaḥ | ā | hvayati | dāru | aṅga | eṣaḥ | apa | avadhīt | vasan | araṇyānyām | sāyam | akrukṣat | iti | manyate