Sukta 10.146
उत गाव इवादन्त्युत वेश्मेव दृश्यते । उतो अरण्यानिः सायं शकटीरिव सर्जति ॥
उ॒त गाव॑ इवादन्त्यु॒त वेश्मे॑व दृश्यते । उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ॥
utá gā́va ivādanty utá véśmeva dṛśyate | utó araṇyāníḥ sāyáṃ śakaṭī́r iva sarjati ||
And there, as if cows were grazing; and as if a house were seen. And Araṇyānī at evening lets loose sounds like the creaking of carts—signs of life moving in the wide solitude.
उ॒त । गावः॑ऽइव । अ॒द॒न्ति॒ । उ॒त । वेश्म॑ऽइव दृ॒श्य॒ते॒ । उ॒तो इति॑ । अ॒र॒ण्या॒निः । सा॒यम् । श॒क॒टीःऽइ॑व । स॒र्ज॒ति॒ ॥उत । गावःइव । अदन्ति । उत । वेश्मइव दृश्यते । उतो इति । अरण्यानिः । सायम् । शकटीःइव । सर्जति ॥uta | gāvaḥ-iva | adanti | uta | veśma-ivadṛśyate | uto iti | araṇyāniḥ | sāyam | śakaṭīḥ-iva | sarjati