Sukta 10.146
वृषारवाय वदते यदुपावति चिच्चिकः । आघाटिभिरिव धावयन्नरण्यानिर्महीयते ॥
वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः । आ॒घा॒टिभि॑रिव धा॒वय॑न्नरण्या॒निर्म॑हीयते ॥
vṛṣā-ravā́ya vádāte yád upā́vati ciccikáḥ | āghāṭíbhir iva dhāváyann araṇyānír mahī́yate ||
When the ciccika cries out to the bull-roarer as it approaches, and it makes things rush about as if with clattering blows, then Araṇyānī grows great—magnified by the forest’s stirring life.
वृ॒षा॒ऽर॒वाय॑ । वद॑ते । यत् । उ॒प॒ऽअव॑ति । चि॒च्चि॒कः । आ॒घा॒टिभिः॑ऽइव । धा॒वय॑न् । अ॒र॒ण्या॒निः । म॒ही॒य॒ते॒ ॥वृषारवाय । वदते । यत् । उपअवति । चिच्चिकः । आघाटिभिःइव । धावयन् । अरण्यानिः । महीयते ॥vṛṣāravāya | vadate | yat | upa-avati | ciccikaḥ | āghāṭibhiḥ-iva | dhāvayan | araṇyāniḥ | mahīyate