Sukta 10.145
इमां खनाम्योषधिं वीरुधं बलवत्तमाम् । यया सपत्नीं बाधते यया संविन्दते पतिम् ॥
इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधं॒ बल॑वत्तमाम् । यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति॑म् ॥
imā́ṃ khanāmy óṣadhiṃ vīrúdhaṃ bálavattamām | yayā́ sapátnīṃ bā́dhate yayā́ saṃvindáte pátim ||
I dig up this healing plant, this most potent growing force—by which one overcomes the rival in consciousness, by which one wins again the lord of the being (the true partner within).
इ॒माम् । ख॒ना॒मि॒ । ओष॑धिम् । वी॒रुध॑म् । बल॑वत्ऽतमाम् । यया॑ । स॒ऽपत्नी॑म् । बाध॑ते । यया॑ । स॒म्ऽवि॒न्दते॑ । पति॑म् ॥इमाम् । खनामि । ओषधिम् । वीरुधम् । बलवत्तमाम् । यया । सपत्नीम् । बाधते । यया । सम्विन्दते । पतिम् ॥imām | khanāmi | oṣadhim | vīrudham | balavat-tamām | yayā | sa-patnīm | bādhate | yayā | sam-vindate | patim