Sukta 10.144
यं ते श्येनश्चारुमवृकं पदाभरदरुणं मानमन्धसः । एना वयो वि तार्यायुर्जीवस एना जागार बन्धुता ॥
यं ते॑ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमन्ध॑सः । ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा॑गार ब॒न्धुता॑ ॥
yaṃ te śyenáś cā́rum avṛkáṃ padā́bharad aruṇáṃ mā́nam ándhasaḥ | enā́ váyo ví tāry ā́yur jīváse enā́ jāgāra bandhútā ||
That which the falcon brought to thee with his step—beautiful, not wolfish, the ruddy measure of the pressed delight—by this the powers of life are carried beyond, by this the life-span is widened for living; by this kinship wakes.
यम् । ते॒ । श्ये॒नः । चारु॑म् । अ॒वृ॒कम् । प॒दा । आ । अभ॑रत् । अ॒रु॒णम् । मा॒नम् । अन्ध॑सः । ए॒ना । वयः॑ । वि । ता॒रि॒ । आयुः॑ । जी॒वसे॑ । ए॒ना । जा॒गा॒र॒ । ब॒न्धुता॑ ॥यम् । ते । श्येनः । चारुम् । अवृकम् । पदा । आ । अभरत् । अरुणम् । मानम् । अन्धसः । एना । वयः । वि । तारि । आयुः । जीवसे । एना । जागार । बन्धुता ॥yam | te | śyenaḥ | cārum | avṛkam | padā | ā | abharat | aruṇam | mānam | andhasaḥ | enā | vayaḥ | vi | tāri | āyuḥ | jīvase | enā | jāgāra | bandhutā