Sukta 10.144
एवा तदिन्द्र इन्दुना देवेषु चिद्धारयाते महि त्यजः । क्रत्वा वयो वि तार्यायुः सुक्रतो क्रत्वायमस्मदा सुतः ॥
ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यज॑: । क्रत्वा॒ वयो॒ वि ता॒र्यायु॑: सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥
evá tád índra índunā devéṣu cid dhārayāte máhi tyájaḥ | kratvā́ váyo ví tāry ā́yuḥ sukrato kratvā́yám asmadā́ sutáḥ ||
Even so Indra, by the Soma-drop, upholds that great victorious force even among the gods; by will he carries the life-powers beyond and widens life—O perfect in will—by will this pressed Soma comes to us.
ए॒व । तत् । इन्द्रः॑ । इन्दु॑ना । दे॒वेषु॑ । चि॒त् । धा॒र॒या॒ते॒ । महि॑ । त्यजः॑ । क्रत्वा॑ । वयः॑ । वि । ता॒रि॒ । आयुः॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । क्रत्वा॑ । अ॒यम् । अ॒स्मत् । आ । सु॒तः ॥एव । तत् । इन्द्रः । इन्दुना । देवेषु । चित् । धारयाते । महि । त्यजः । क्रत्वा । वयः । वि । तारि । आयुः । सुक्रतो इति सुक्रतो । क्रत्वा । अयम् । अस्मत् । आ । सुतः ॥eva | tat | indraḥ | indunā | deveṣu | cit | dhārayāte | mahi | tyajaḥ | kratvā | vayaḥ | vi | tāri | āyuḥ | sukrato itisu-krato | kratvā | ayam | asmat | ā | sutaḥ