Sukta 10.144
यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् । शतचक्रं योऽह्यो वर्तनिः ॥
यं सु॑प॒र्णः प॑रा॒वत॑: श्ये॒नस्य॑ पु॒त्र आभ॑रत् । श॒तच॑क्रं॒ यो॒३॒॑ऽह्यो॑ वर्त॒निः ॥
yaṃ súparṇaḥ parāvátaḥ śyenásya putrá ā́bharat | śatá-cakraṃ yó 'hyó vartaníḥ ||
That which the fair-winged one brought from the far beyond—the son of the falcon—(that) hundred-wheeled power, the path that outpaces the serpent-force.
यम् । सु॒ऽप॒र्णः । प॒रा॒ऽवतः॑ । श्ये॒नस्य॑ । पु॒त्रः । आ । अभ॑रत् । श॒तऽच॑क्रम् । यः । अ॒ह्यः॑ । व॒र्त॒निः ॥यम् । सुपर्णः । परावतः । श्येनस्य । पुत्रः । आ । अभरत् । शतचक्रम् । यः । अह्यः । वर्तनिः ॥yam | su-parṇaḥ | parāvataḥ | śyenasya | putraḥ | ā | abharat | śata-cakram | yaḥ | ahyaḥ | vartaniḥ