Sukta 10.144
अयमस्मासु काव्य ऋभुर्वज्रो दास्वते । अयं बिभर्त्यूर्ध्वकृशनं मदमृभुर्न कृत्व्यं मदम् ॥
अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते । अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मद॑म् ॥
ayám asmā́su kā́vya ṛbhúr vájro dā́svate | ayám bibharty ūrdhvá-kṛśanaṃ mádam ṛbhúr ná kṛtvyáṃ mádam ||
This inspired R̥bhu-force is within us as a thunderbolt for the giver; it bears aloft an upward-straining ecstasy—an R̥bhu delight, not a fabricated or forced delight.
अ॒यम् । अ॒स्मासु॑ । काव्यः॑ । ऋ॒भुः । वज्रः॑ । दास्व॑ते । अ॒यम् । बि॒भ॒र्ति॒ । ऊ॒र्ध्वऽकृ॑शनम् । मद॑म् । ऋ॒भुः । न । कृत्व्य॑म् । मद॑म् ॥अयम् । अस्मासु । काव्यः । ऋभुः । वज्रः । दास्वते । अयम् । बिभर्ति । ऊर्ध्वकृशनम् । मदम् । ऋभुः । न । कृत्व्यम् । मदम् ॥ayam | asmāsu | kāvyaḥ | ṛbhuḥ | vajraḥ | dāsvate | ayam | bibharti | ūrdhva-kṛśanam | madam | ṛbhuḥ | na | kṛtvyam | madam