Sukta 10.144
अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते । दक्षो विश्वायुर्वेधसे ॥
अ॒यं हि ते॒ अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते । दक्षो॑ वि॒श्वायु॑र्वे॒धसे॑ ॥
ayáṃ hí te amártya índur átyo ná pátyate | dákṣo viśvā́yur véḍhase ||
This indeed is for you, O immortal: the Soma-drop, like a swift steed, rushes forward. It is a discerning power, sustaining all life, for the Seer-Worker.
अ॒यम् । हि । ते॒ । अम॑र्त्यः । इन्दुः॑ । अत्यः॑ । न । पत्य॑ते । दक्षः॑ । वि॒श्वऽआ॑युः । वे॒धसे॑ ॥अयम् । हि । ते । अमर्त्यः । इन्दुः । अत्यः । न । पत्यते । दक्षः । विश्वआयुः । वेधसे ॥ayam | hi | te | amartyaḥ | induḥ | atyaḥ | na | patyate | dakṣaḥ | viśva-āyuḥ | vedhase