Sukta 10.143
चिते तद्वां सुराधसा रातिः सुमतिरश्विना । आ यन्नः सदने पृथौ समने पर्षथो नरा ॥
चि॒ते तद्वां॑ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना । आ यन्न॒: सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ॥
citē tád vāṃ surādhasā rātíḥ su-matír aśvinā | ā́ yán naḥ sádane pṛtháu sámane párṣatho narā ||
This indeed is your gift, O you of rich power, O Aśvins—your good will. When you come to our wide seat, then in the common gathering, O heroes, carry us across.
चि॒ते । तत् । वा॒म् । सु॒ऽरा॒ध॒सा॒ । रा॒तिः । सु॒ऽम॒तिः । अ॒श्वि॒ना॒ । आ । यत् । नः॒ । सद॑ने । पृ॒थौ । सम॑ने । पर्ष॑थः । न॒रा॒ ॥चिते । तत् । वाम् । सुराधसा । रातिः । सुमतिः । अश्विना । आ । यत् । नः । सदने । पृथौ । समने । पर्षथः । नरा ॥cite | tat | vām | su-rādhasā | rātiḥ | su-matiḥ | aśvinā | ā | yat | naḥ | sadane | pṛthau | samane | parṣathaḥ | narā