Sukta 10.142
अपामिदं न्ययनं समुद्रस्य निवेशनम् । अन्यं कृणुष्वेतः पन्थां तेन याहि वशाँ अनु ॥
अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्यं कृ॑णुष्वे॒तः पन्थां॒ तेन॑ याहि॒ वशाँ॒ अनु॑ ॥
apā́m idáṃ ní-ayanam samudrásya ní-veśanam | anyáṃ kṛṇuṣv étaḥ pánthāṃ téna yāhi vaśā́n ánu ||
This is the downward-leading course of the waters, the settling-place of the ocean. Make for yourself another path away from here; by that go, following the guiding impulses of the will.
अ॒पाम् । इ॒दम् । नि॒ऽअय॑नम् । स॒मु॒द्रस्य॑ । नि॒ऽवेश॑नम् । अ॒न्यम् । कृ॒णु॒ष्व॒ । इ॒तः । पन्था॑म् । तेन॑ । या॒हि॒ । वशा॑न् । अनु॑ ॥अपाम् । इदम् । निअयनम् । समुद्रस्य । निवेशनम् । अन्यम् । कृणुष्व । इतः । पन्थाम् । तेन । याहि । वशान् । अनु ॥apām | idam | ni-ayanam | samudrasya | ni-veśanam | anyaṅm | kṛṇuṣva | itaḥ | panthām | tena | yāhi | vaśān | anu