Sukta 10.142
उत्ते शुष्मा जिहतामुत्ते अर्चिरुत्ते अग्ने शशमानस्य वाजाः । उच्छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ॥
उत्ते॒ शुष्मा॑ जिहता॒मुत्ते॑ अ॒र्चिरुत्ते॑ अग्ने शशमा॒नस्य॒ वाजा॑: । उच्छ्व॑ञ्चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदन्तु ॥
út te śúṣmā jihatām út te arcír út te agne śaśamāná-sya vā́jāḥ | úc chvañcasva ní namaḥ várdhamāna ā́ tvā́dya víśve vásavaḥ sadantu ||
Rise up—let your powers cast off all that obstructs; rise up—your flame, rise up—O Agni, the plenitudes of force for the one who strives. Stand upright; bow down in growing reverence: today let all the Vasus take their seat in you.
उत् । ते॒ । शुष्माः॑ । जि॒ह॒ता॒म् । उत् । ते॒ । अ॒ग्ने॒ । श॒श॒मा॒नस्य॑ । वाजाः॑ । उत् । श्व॒ञ्च॒स्व॒ । नि । न॑मः । वर्ध॑मानः । आ । त्वा॒ । अ॒द्य । विश्वे॑ । वस॑वः । स॒द॒न्तु॒ ॥उत् । ते । शुष्माः । जिहताम् । उत् । ते । अग्ने । शशमानस्य । वाजाः । उत् । श्वञ्चस्व । नि । नमः । वर्धमानः । आ । त्वा । अद्य । विश्वे । वसवः । सदन्तु ॥ut | te | śuṣmāḥ | jihatām | ut | te | agne | śaśamānasya | vājāḥ | ut | śvañcasva | ni | namaḥ | vardhamānaḥ | ā | tvā | adya | viśve | vasavaḥ | sadantu